Original

ततः संजातसंत्रासानग्नेर्दर्शनलालसान् ।जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः ।उवाच देवान्मण्डूको रसातलतलोत्थितः ॥ २२ ॥

Segmented

ततः संजात-संत्रासान् अग्नेः दर्शन-लालसान् जलेचरः क्लम्-मनाः तेजसा अग्नेः प्रदीपितः उवाच देवान् मण्डूकः रसातल-तल-उत्थितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संजात संजन् pos=va,comp=y,f=part
संत्रासान् संत्रास pos=n,g=m,c=2,n=p
अग्नेः अग्नि pos=n,g=m,c=6,n=s
दर्शन दर्शन pos=n,comp=y
लालसान् लालस pos=a,g=m,c=2,n=p
जलेचरः जलेचर pos=n,g=m,c=1,n=s
क्लम् क्लम् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
प्रदीपितः प्रदीपय् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
मण्डूकः मण्डूक pos=n,g=m,c=1,n=s
रसातल रसातल pos=n,comp=y
तल तल pos=n,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part