Original

अथ सूर्योऽतिचक्राम तेषां संवदतां तथा ।अथर्षिश्चोदयामास पानमन्नं तथैव च ॥ २५ ॥

Segmented

अथ सूर्यो ऽतिचक्राम तेषाम् संवदताम् तथा अथ ऋषिः चोदयामास पानम् अन्नम् तथा एव च

Analysis

Word Lemma Parse
अथ अथ pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ऽतिचक्राम अतिक्रम् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
संवदताम् संवद् pos=va,g=m,c=6,n=p,f=part
तथा तथा pos=i
अथ अथ pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
पानम् पान pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i