Original

दानेन तपसा चैव सत्येन च युधिष्ठिर ।ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ ८३ ॥

Segmented

दानेन तपसा च एव सत्येन च युधिष्ठिर ये धर्मम् अनुवर्तन्ते ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
दानेन दान pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p