Original

चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः ।सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ॥ २५ ॥

Segmented

चरित-व्रताः गुणैः युक्ता भवेयुः ये ऽपि कर्षकाः सावित्री-ज्ञाः क्रियावन्तः ते राजन् केतन-क्षमाः

Analysis

Word Lemma Parse
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
कर्षकाः कर्षक pos=n,g=m,c=1,n=p
सावित्री सावित्री pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
क्रियावन्तः क्रियावत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
केतन केतन pos=n,comp=y
क्षमाः क्षम pos=a,g=m,c=1,n=p