Original

मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् ।दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥ ३३ ॥

Segmented

मित्रावरुणयोः पुत्रः तथा अगस्त्यः प्रतापवान् दृढायुः च ऊर्ध्वबाहुः च विश्रुतौ ऋषि-सत्तमौ

Analysis

Word Lemma Parse
मित्रावरुणयोः मित्रावरुण pos=n,g=m,c=6,n=d
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दृढायुः दृढायु pos=n,g=m,c=1,n=s
pos=i
ऊर्ध्वबाहुः ऊर्ध्वबाहु pos=n,g=m,c=1,n=s
pos=i
विश्रुतौ विश्रु pos=va,g=m,c=1,n=d,f=part
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d