Original

रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः ।ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥ २० ॥

Segmented

रुद्रस्य विक्रमम् दृष्ट्वा भीता देवाः सह ऋषिभिः ततः प्रसादयामासुः शर्वम् ते विबुध-उत्तमाः

Analysis

Word Lemma Parse
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीता भी pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
ततः ततस् pos=i
प्रसादयामासुः प्रसादय् pos=v,p=3,n=p,l=lit
शर्वम् शर्व pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
विबुध विबुध pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p