Original

ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः ।भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ॥ १७ ॥

Segmented

ततः सो ऽभ्यद्रवद् देवान् क्रुद्धो रौद्र-पराक्रमः भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
देवान् देव pos=n,g=m,c=2,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रौद्र रौद्र pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
भगस्य भग pos=n,g=m,c=6,n=s
नयने नयन pos=n,g=n,c=2,n=d
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan