Original

वाय्वाहारैरम्बुपैर्जप्यनित्यैः संप्रक्षालैर्यतिभिर्ध्याननित्यैः ।धूमाशनैरूष्मपैः क्षीरपैश्च विभूषितं ब्राह्मणेन्द्रैः समन्तात् ॥ ३८ ॥

Segmented

वायु-आहारैः अम्बुपैः जप्य-नित्यैः संप्रक्षालैः यतिभिः ध्यान-नित्यैः धूम-अशनैः ऊष्मपैः क्षीरपैः च विभूषितम् ब्राह्मण-इन्द्रैः समन्तात्

Analysis

Word Lemma Parse
वायु वायु pos=n,comp=y
आहारैः आहार pos=n,g=m,c=3,n=p
अम्बुपैः अम्बुप pos=a,g=m,c=3,n=p
जप्य जप्य pos=n,comp=y
नित्यैः नित्य pos=a,g=m,c=3,n=p
संप्रक्षालैः सम्प्रक्षाल pos=n,g=m,c=3,n=p
यतिभिः यति pos=n,g=m,c=3,n=p
ध्यान ध्यान pos=n,comp=y
नित्यैः नित्य pos=a,g=m,c=3,n=p
धूम धूम pos=n,comp=y
अशनैः अशन pos=n,g=m,c=3,n=p
ऊष्मपैः ऊष्मप pos=n,g=m,c=3,n=p
क्षीरपैः क्षीरप pos=a,g=m,c=3,n=p
pos=i
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i