Original

ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन् ।ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ।गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् ॥ १४७ ॥

Segmented

ब्रह्मा भवम् तदा स्तुन्वन् रथन्तरम् उदीरयन् ज्येष्ठसाम्ना च देवेशम् जगौ नारायणः तदा गृणञ् शक्रः परम् ब्रह्म शतरुद्रीयम् उत्तमम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
भवम् भव pos=n,g=m,c=2,n=s
तदा तदा pos=i
स्तुन्वन् स्तु pos=va,g=m,c=1,n=s,f=part
रथन्तरम् रथंतर pos=n,g=n,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part
ज्येष्ठसाम्ना ज्येष्ठसामन् pos=n,g=n,c=3,n=s
pos=i
देवेशम् देवेश pos=n,g=m,c=2,n=s
जगौ गा pos=v,p=3,n=s,l=lit
नारायणः नारायण pos=n,g=m,c=1,n=s
तदा तदा pos=i
गृणञ् गृ pos=va,g=m,c=1,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
शतरुद्रीयम् शतरुद्रीय pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s