Original

अथ शून्ये पुरोधास्तु सह राज्ञा समागतः ।कथाभिरनुकूलाभी राजानमभिरामयत् ॥ ३९ ॥

Segmented

अथ शून्ये पुरोधाः तु सह राज्ञा समागतः कथाभिः अनुकूलाभी राजानम् अभिरामयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
शून्ये शून्य pos=n,g=n,c=7,n=s
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
तु तु pos=i
सह सह pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
कथाभिः कथा pos=n,g=f,c=3,n=p
अनुकूलाभी अनुकूल pos=a,g=f,c=3,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिरामयत् अभिरामय् pos=v,p=3,n=s,l=lan