Original

दातारं संविभक्तारं मार्दवोपगतं शुचिम् ।असंत्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् ॥ २७ ॥

Segmented

दातारम् संविभक्तारम् मार्दव-उपगतम् शुचिम् असंत्यक्त-मनुष्यम् च तम् जनाः कुर्वते प्रियम्

Analysis

Word Lemma Parse
दातारम् दातृ pos=a,g=m,c=2,n=s
संविभक्तारम् संविभक्तृ pos=a,g=m,c=2,n=s
मार्दव मार्दव pos=n,comp=y
उपगतम् उपगम् pos=va,g=m,c=2,n=s,f=part
शुचिम् शुचि pos=a,g=m,c=2,n=s
असंत्यक्त असंत्यक्त pos=a,comp=y
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
प्रियम् प्रिय pos=a,g=m,c=2,n=s