Original

आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ।षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा ॥ २८ ॥

Segmented

आयत्याम् च तदात्वे च न ते अस्ति अ विदितम् प्रभो षाड्गुण्यस्य विधानेन यात्रा-यान-विधौ तथा

Analysis

Word Lemma Parse
आयत्याम् आयति pos=n,g=f,c=7,n=s
pos=i
तदात्वे तदात्व pos=n,g=n,c=7,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s
षाड्गुण्यस्य षाड्गुण्य pos=n,g=n,c=6,n=s
विधानेन विधान pos=n,g=n,c=3,n=s
यात्रा यात्रा pos=n,comp=y
यान यान pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
तथा तथा pos=i