Original

तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति ।यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ॥ १५ ॥

Segmented

तथा एव अति उदकात् भीतः तस्य भेदनम् इच्छति यम् एवंलक्षणम् विद्यात् तम् अमित्रम् विनिर्दिशेत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अति अति pos=i
उदकात् उदक pos=n,g=n,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भेदनम् भेदन pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
एवंलक्षणम् एवंलक्षण pos=a,g=m,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
विनिर्दिशेत् विनिर्दिश् pos=v,p=3,n=s,l=vidhilin