Original

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।राजन्यसति लोकस्य कुतो भार्या कुतो धनम् ॥ ४१ ॥

Segmented

राजानम् प्रथमम् विन्देत् ततो भार्याम् ततो धनम् राजनि असति लोकस्य कुतो भार्या कुतो धनम्

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
विन्देत् विद् pos=v,p=3,n=s,l=vidhilin
ततो ततस् pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
ततो ततस् pos=i
धनम् धन pos=n,g=n,c=2,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
असति असत् pos=a,g=m,c=7,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
कुतो कुतस् pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
कुतो कुतस् pos=i
धनम् धन pos=n,g=n,c=1,n=s