Original

उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे ।निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः ॥ २९ ॥

Segmented

उद्यम्य शस्त्रम् आयान्तम् अपि वेद-अन्तगम् रणे निगृह्णीयात् स्वधर्मेण धर्म-अपेक्षी नरेश्वरः

Analysis

Word Lemma Parse
उद्यम्य उद्यम् pos=vi
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
वेद वेद pos=n,comp=y
अन्तगम् अन्तग pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
निगृह्णीयात् निग्रह् pos=v,p=3,n=s,l=vidhilin
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
अपेक्षी अपेक्षिन् pos=a,g=m,c=1,n=s
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s