Original

ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः ।दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ॥ २६ ॥

Segmented

ततो मुहूर्ताद् भगवान् सहस्रांशुः दिवाकरः दहन् वनम् इव एकान्ते प्रतीच्याम् प्रत्यदृश्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
दहन् दह् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
इव इव pos=i
एकान्ते एकान्त pos=n,g=m,c=7,n=s
प्रतीच्याम् प्रतीची pos=n,g=f,c=7,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan