Original

षष्ट्या दन्तैर्युक्ताः शुक्लैरष्टाभिर्दंष्ट्राभिर्ये ।जिह्वाभिर्ये विष्वग्वक्त्रं लेलिह्यन्ते सूर्यप्रख्यम् ॥ ११ ॥

Segmented

षष्ट्या दन्तैः युक्ताः शुक्लैः अष्टाभिः दंष्ट्राभिः ये जिह्वाभिः ये विष्वक्-वक्त्रम् लेलिह्यन्ते सूर्य-प्रख्यम्

Analysis

Word Lemma Parse
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
दन्तैः दन्त pos=n,g=m,c=3,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
शुक्लैः शुक्ल pos=a,g=m,c=3,n=p
अष्टाभिः अष्टन् pos=n,g=f,c=3,n=p
दंष्ट्राभिः दंष्ट्र pos=n,g=f,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
जिह्वाभिः जिह्वा pos=n,g=f,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
विष्वक् विष्वञ्च् pos=a,comp=y
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
लेलिह्यन्ते लेलिह् pos=v,p=3,n=p,l=lat
सूर्य सूर्य pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s