Original

इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् ।क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः ॥ ८३ ॥

Segmented

इदम् पूर्वम् इदम् पश्चाद् वक्तव्यम् यद् विवक्षितम् क्रम-योगम् तम् अपि आहुः वाक्यम् वाक्य-विदः जनाः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
पश्चाद् पश्चात् pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
यद् यद् pos=n,g=n,c=1,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part
क्रम क्रम pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p