Original

कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे ।वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते ॥ १२१ ॥

Segmented

कलानाम् पृथक् अर्थानाम् प्रतिभेदः क्षणे क्षणे वर्तते सर्व-भूतेषु सौक्ष्म्यात् तु न विभाव्यते

Analysis

Word Lemma Parse
कलानाम् कला pos=n,g=f,c=6,n=p
पृथक् पृथक् pos=i
अर्थानाम् अर्थ pos=n,g=f,c=6,n=p
प्रतिभेदः प्रतिभेद pos=n,g=m,c=1,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
सौक्ष्म्यात् सौक्ष्म्य pos=n,g=n,c=5,n=s
तु तु pos=i
pos=i
विभाव्यते विभावय् pos=v,p=3,n=s,l=lat