Original

यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् ।ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ॥ ९४ ॥

Segmented

यः सहस्रम् सहस्राणाम् राज्ञाम् अयुत-याजिनाम् ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अयुत अयुत pos=n,comp=y
याजिनाम् याजिन् pos=a,g=m,c=6,n=p
ईजानो यज् pos=va,g=m,c=1,n=s,f=part
वितते वितन् pos=va,g=m,c=7,n=s,f=part
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
समाहितः समाहित pos=a,g=m,c=1,n=s