Original

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः ॥ ३९ ॥

Segmented

स चेद् ममार सृञ्जय चतुर्भद्रतरः त्वया पुत्रात् पुण्यतरः च एव मा पुत्रम् अनुतप्यथाः अदक्षिणम् अयज्वानम् तम् वै संशाम्य मा शुचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
ममार मृ pos=v,p=3,n=s,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
चतुर्भद्रतरः चतुर्भद्रतर pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
पुण्यतरः पुण्यतर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
मा मा pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अनुतप्यथाः अनुतप् pos=v,p=2,n=s,l=lun_unaug
अदक्षिणम् अदक्षिण pos=a,g=m,c=2,n=s
अयज्वानम् अयज्वन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
संशाम्य संशामय् pos=vi
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug