Original

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः ॥ १२ ॥

Segmented

अत्र एव उदाहरन्ति इमम् इतिहासम् पुरातनम् सृञ्जयम् पुत्र-शोक-आर्तम् यथा अयम् प्राह नारदः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एव एव pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
सृञ्जयम् सृञ्जय pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
नारदः नारद pos=n,g=m,c=1,n=s