Original

अमृतस्येव संतृप्येदवमानस्य वै द्विजः ।सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ २६ ॥

Segmented

अमृतस्य इव संतृप्येद् अवमानस्य वै द्विजः सुखम् हि अवमतः शेते यो ऽवमन्ता स नश्यति

Analysis

Word Lemma Parse
अमृतस्य अमृत pos=n,g=n,c=6,n=s
इव इव pos=i
संतृप्येद् संतृप् pos=v,p=3,n=s,l=vidhilin
अवमानस्य अवमान pos=n,g=m,c=6,n=s
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
हि हि pos=i
अवमतः अवमन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽवमन्ता अवमन्तृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat