Original

अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।अमानुषान्मानुषो वै विशिष्टस्तथाज्ञानाज्ज्ञानवान्वै प्रधानः ॥ १५ ॥

Segmented

अक्रोधनः क्रुध्यताम् वै विशिष्टस् तथा तितिक्षुः अतितिक्षोः विशिष्टः अमानुषात् मानुषः वै विशिष्टस् तथा अज्ञानात् ज्ञानवान् वै प्रधानः

Analysis

Word Lemma Parse
अक्रोधनः अक्रोधन pos=a,g=m,c=1,n=s
क्रुध्यताम् क्रुध् pos=va,g=m,c=6,n=p,f=part
वै वै pos=i
विशिष्टस् विशिष् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तितिक्षुः तितिक्षु pos=a,g=m,c=1,n=s
अतितिक्षोः अतितिक्षु pos=a,g=m,c=6,n=s
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
अमानुषात् अमानुष pos=a,g=m,c=5,n=s
मानुषः मानुष pos=n,g=m,c=1,n=s
वै वै pos=i
विशिष्टस् विशिष् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अज्ञानात् अज्ञान pos=a,g=m,c=5,n=s
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s
वै वै pos=i
प्रधानः प्रधान pos=a,g=m,c=1,n=s