Original

मृत्योर्ये ते व्याधयश्चाश्रुपाता मनुष्याणां रुज्यते यैः शरीरम् ।सर्वेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुध्य बुद्ध्या ॥ ३७ ॥

Segmented

मृत्योः ये ते व्याधयः च अश्रु-पाताः मनुष्याणाम् रुज्यते यैः शरीरम् सर्वेषाम् वै प्राणिनाम् प्राणनान्ते तस्मात् शोकम् मा कृथा बुध्य बुद्ध्या

Analysis

Word Lemma Parse
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
व्याधयः व्याधि pos=n,g=m,c=1,n=p
pos=i
अश्रु अश्रु pos=n,comp=y
पाताः पात pos=n,g=m,c=1,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
रुज्यते रुज् pos=v,p=3,n=s,l=lat
यैः यद् pos=n,g=m,c=3,n=p
शरीरम् शरीर pos=n,g=n,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
वै वै pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्राणनान्ते प्राणनान्त pos=n,g=m,c=7,n=s
तस्मात् तस्मात् pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
मा मा pos=i
कृथा कृ pos=v,p=2,n=s,l=lun_unaug
बुध्य बुध् pos=vi
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s