Original

एवं धर्मं पालयिष्यस्यथोक्तं न चात्मानं मज्जयिष्यस्यधर्मे ।तस्मात्कामं रोचयाभ्यागतं त्वं संयोज्याथो संहरस्वेह जन्तून् ॥ ३५ ॥

Segmented

एवम् धर्मम् पालयिष्यसि अथ उक्तम् न च आत्मानम् मज्जयिष्यसि अधर्मे तस्मात् कामम् रोचय अभ्यागतम् त्वम् संयोज्य अथो संहरस्व इह जन्तून्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
पालयिष्यसि पालय् pos=v,p=2,n=s,l=lrt
अथ अथ pos=i
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मज्जयिष्यसि मज्जय् pos=v,p=2,n=s,l=lrt
अधर्मे अधर्म pos=n,g=m,c=7,n=s
तस्मात् तस्मात् pos=i
कामम् काम pos=n,g=m,c=2,n=s
रोचय रोचय् pos=v,p=2,n=s,l=lot
अभ्यागतम् अभ्यागम् pos=va,g=m,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
संयोज्य संयोजय् pos=vi
अथो अथो pos=i
संहरस्व संहृ pos=v,p=2,n=s,l=lot
इह इह pos=i
जन्तून् जन्तु pos=n,g=m,c=2,n=p