Original

सर्वेषां त्वं प्राणिनामन्तकाले कामक्रोधौ सहितौ योजयेथाः ।एवं धर्मस्त्वामुपैष्यत्यमेयो न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥ ३४ ॥

Segmented

सर्वेषाम् त्वम् प्राणिनाम् अन्तकाले काम-क्रोधौ सहितौ योजयेथाः एवम् धर्मः त्वा उपैष्यति अमेयः न च अधर्मम् लप्स्यसे तुल्य-वृत्तिः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
सहितौ सहित pos=a,g=m,c=2,n=d
योजयेथाः योजय् pos=v,p=2,n=s,l=vidhilin
एवम् एवम् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
उपैष्यति उपे pos=v,p=3,n=s,l=lrt
अमेयः अमेय pos=a,g=m,c=1,n=s
pos=i
pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
तुल्य तुल्य pos=a,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s