Original

व्यास उवाच ।एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति ॥ १ ॥

Segmented

व्यास उवाच एषा पूर्वतरा वृत्तिः ब्राह्मणस्य विधीयते ज्ञानवान् एव कर्माणि कुर्वन् सर्वत्र सिध्यति

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एषा एतद् pos=n,g=f,c=1,n=s
पूर्वतरा पूर्वतर pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s
एव एव pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
सर्वत्र सर्वत्र pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat