Original

गुणानां साम्यमागम्य मनसैव मनोवहम् ।देहकर्म नुदन्प्राणानन्तकाले विमुच्यते ॥ २५ ॥

Segmented

गुणानाम् साम्यम् आगम्य मनसा एव मनः-वहम् देह-कर्म नुदन् प्राणान् अन्तकाले विमुच्यते

Analysis

Word Lemma Parse
गुणानाम् गुण pos=n,g=m,c=6,n=p
साम्यम् साम्य pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
मनः मनस् pos=n,comp=y
वहम् वह pos=a,g=n,c=2,n=s
देह देह pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
नुदन् नुद् pos=va,g=m,c=1,n=s,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat