Original

सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते ।पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः ॥ २ ॥

Segmented

सर्वेषाम् एव भूतानाम् पुरुषः श्रेष्ठ उच्यते पुरुषेभ्यो द्विजान् आहुः द्विजेभ्यो मन्त्र-वादिनः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
पुरुषेभ्यो पुरुष pos=n,g=m,c=5,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
द्विजेभ्यो द्विज pos=n,g=m,c=5,n=p
मन्त्र मन्त्र pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p