Original

तस्य तात वधात्सर्वे देवदानवमानवाः ।मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् ॥ १६ ॥

Segmented

तस्य तात वधात् सर्वे देव-दानव-मानवाः मधुसूदनम् इति आहुः वृषभम् सर्व-सात्वताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
वधात् वध pos=n,g=m,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
वृषभम् वृषभ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p