Original

प्रजाः सृष्टा मनसा कर्मणा च द्वावप्येतौ सत्पथौ लोकजुष्टौ ।दृष्ट्वा कर्म शाश्वतं चान्तवच्च मनस्त्यागः कारणं नान्यदस्ति ॥ १२ ॥

Segmented

प्रजाः सृष्टा मनसा कर्मणा च द्वौ अपि एतौ सत्-पन्थानौ लोक-जुष्टौ दृष्ट्वा कर्म शाश्वतम् च अन्तवत् च मनः त्यागः कारणम् न अन्यत् अस्ति

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सृष्टा सृज् pos=va,g=f,c=1,n=p,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
अपि अपि pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
सत् सत् pos=a,comp=y
पन्थानौ पथिन् pos=n,g=m,c=1,n=d
लोक लोक pos=n,comp=y
जुष्टौ जुष् pos=va,g=m,c=1,n=d,f=part
दृष्ट्वा दृश् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
pos=i
अन्तवत् अन्तवत् pos=a,g=n,c=2,n=s
pos=i
मनः मनस् pos=n,g=n,c=2,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat