Original

युधिष्ठिर उवाच ।गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह ।एकैवैषा गतिस्तेषामुत यान्त्यपरामपि ॥ १ ॥

Segmented

युधिष्ठिर उवाच गतीनाम् उत्तमा प्राप्तिः कथिता जापकेषु इह एका एव एषा गतिः तेषाम् उत यान्ति अपराम् अपि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गतीनाम् गति pos=n,g=f,c=6,n=p
उत्तमा उत्तम pos=a,g=f,c=1,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
जापकेषु जापक pos=a,g=m,c=7,n=p
इह इह pos=i
एका एक pos=n,g=f,c=1,n=s
एव एव pos=i
एषा एतद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
उत उत pos=i
यान्ति या pos=v,p=3,n=p,l=lat
अपराम् अपर pos=n,g=f,c=2,n=s
अपि अपि pos=i