Original

तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च ।इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते ।न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति ।स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना ॥ ९ ॥

Segmented

तत् खलु द्विविधम् सुखम् उच्यते शारीरम् मानसम् च इह खलु अमुष्मिन् च लोके सर्व-आरम्भ-प्रवृत्तयः सुख-अर्थाः अभिधीयन्ते न हि अतस् त्रिवर्ग-फलम् विशिष्टतरम् अस्ति स एष काम्यो गुण-विशेषः धर्म-अर्थयोः आरम्भः तद्-हेतुः अस्य उत्पत्तिः सुख-प्रयोजना

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
खलु खलु pos=i
द्विविधम् द्विविध pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
शारीरम् शारीर pos=a,g=n,c=1,n=s
मानसम् मानस pos=a,g=n,c=1,n=s
pos=i
इह इह pos=i
खलु खलु pos=i
अमुष्मिन् अदस् pos=n,g=m,c=7,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
आरम्भ आरम्भ pos=n,comp=y
प्रवृत्तयः प्रवृत्ति pos=n,g=f,c=1,n=p
सुख सुख pos=n,comp=y
अर्थाः अर्थ pos=n,g=f,c=1,n=p
अभिधीयन्ते अभिधा pos=v,p=3,n=p,l=lat
pos=i
हि हि pos=i
अतस् अतस् pos=i
त्रिवर्ग त्रिवर्ग pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
विशिष्टतरम् विशिष्टतर pos=a,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
काम्यो कामय् pos=va,g=m,c=1,n=s,f=krtya
गुण गुण pos=n,comp=y
विशेषः विशेष pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=6,n=d
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उत्पत्तिः उत्पत्ति pos=n,g=f,c=1,n=s
सुख सुख pos=n,comp=y
प्रयोजना प्रयोजन pos=n,g=f,c=1,n=s