Original

भृगुरुवाच ।अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् ।क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति ।विविधव्याधिगणोपतापैरवकीर्यन्ते ।वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते ।चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते ।बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति ॥ ११ ॥

Segmented

भृगुः उवाच अनृतात् खलु तमः प्रादुर्भूतम् तमः-ग्रस्ताः अधर्मम् एव अनुवर्तन्ते न धर्मम् विविध-व्याधि-गण-उपतापैः अवकीर्यन्ते वध-बन्ध-रोग-परिक्लेश-आदिभिः च क्षुध्-पिपासा-श्रम-कृतैः उपतापैः उपतप्यन्ते चण्ड-वात-अति उष्ण-अति शीत-कृतैः च प्रतिभयैः शारीरैः दुःखैः उपतप्यन्ते बन्धु-धन-विनाश-विप्रयोग-कृतैः च मानसैः शोकैः अभिभूयन्ते जरा-मृत्यु-कृतैः च अन्यैः इति

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनृतात् अनृत pos=n,g=n,c=5,n=s
खलु खलु pos=i
तमः तमस् pos=n,g=n,c=1,n=s
प्रादुर्भूतम् प्रादुर्भू pos=va,g=n,c=1,n=s,f=part
तमः तमस् pos=n,comp=y
ग्रस्ताः ग्रस् pos=va,g=m,c=1,n=p,f=part
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
विविध विविध pos=a,comp=y
व्याधि व्याधि pos=n,comp=y
गण गण pos=n,comp=y
उपतापैः उपताप pos=n,g=m,c=3,n=p
अवकीर्यन्ते अवकृ pos=v,p=3,n=p,l=lat
वध वध pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
रोग रोग pos=n,comp=y
परिक्लेश परिक्लेश pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
श्रम श्रम pos=n,comp=y
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
उपतापैः उपताप pos=n,g=m,c=3,n=p
उपतप्यन्ते उपतप् pos=v,p=3,n=p,l=lat
चण्ड चण्ड pos=a,comp=y
वात वात pos=n,comp=y
अति अति pos=i
उष्ण उष्ण pos=a,comp=y
अति अति pos=i
शीत शीत pos=a,comp=y
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
pos=i
प्रतिभयैः प्रतिभय pos=a,g=n,c=3,n=p
शारीरैः शारीर pos=a,g=n,c=3,n=p
दुःखैः दुःख pos=n,g=n,c=3,n=p
उपतप्यन्ते उपतप् pos=v,p=3,n=p,l=lat
बन्धु बन्धु pos=n,comp=y
धन धन pos=n,comp=y
विनाश विनाश pos=n,comp=y
विप्रयोग विप्रयोग pos=n,comp=y
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
pos=i
मानसैः मानस pos=a,g=m,c=3,n=p
शोकैः शोक pos=n,g=m,c=3,n=p
अभिभूयन्ते अभिभू pos=v,p=3,n=p,l=lat
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
इति इति pos=i