Original

भरद्वाज उवाच ।यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः ।न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति ।श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति ।ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति ।अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् ।तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि ।भगवता तूक्तं सुखानां परमाः स्त्रिय इति ।लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति ।अत्रोच्यताम् ॥ १० ॥

Segmented

भरद्वाज उवाच यद् एतद् भवता अभिहितम् सुखानाम् परमाः स्त्रिय इति तत् न गृह्णीमः न हि एषाम् ऋषीणाम् महति स्थितानाम् अप्राप्य एष गुण-विशेषः न च एनम् अभिलषन्ति श्रूयते च भगवान् त्रि-लोक-कृत् ब्रह्मा प्रभुः एकाकी तिष्ठति ब्रह्मचारी न काम-सुखेषु आत्मानम् अवदधाति अपि च भगवान् विश्वेश्वर उमापतिः कामम् अभिवर्तमानम् अनङ्ग-त्वेन शमम् अनयत् तस्माद् ब्रूमो न महात्मभिः अयम् प्रतिगृहीतो न तु एष तावद् विशिष्टो गुण इति न एतत् भगवतः प्रत्येमि भगवता तु उक्तम् सुखानाम् परमाः स्त्रिय इति लोक-प्रवादः ऽपि च भवति द्विविधः फल-उदयः सुकृतात् सुखम् अवाप्यते दुष्कृताद् दुःखम् इति अत्र उच्यताम्

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
अभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
सुखानाम् सुख pos=n,g=n,c=6,n=p
परमाः परम pos=a,g=f,c=1,n=p
स्त्रिय स्त्री pos=n,g=f,c=1,n=p
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
गृह्णीमः ग्रह् pos=v,p=1,n=p,l=lat
pos=i
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
महति महत् pos=a,g=n,c=7,n=s
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
अप्राप्य अप्राप्य pos=i
एष एतद् pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
विशेषः विशेष pos=n,g=m,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिलषन्ति अभिलष् pos=v,p=3,n=p,l=lat
श्रूयते श्रु pos=v,p=3,n=s,l=lat
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
लोक लोक pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
काम काम pos=n,comp=y
सुखेषु सुख pos=n,g=n,c=7,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवदधाति अवधा pos=v,p=3,n=s,l=lat
अपि अपि pos=i
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विश्वेश्वर विश्वेश्वर pos=n,g=m,c=1,n=s
उमापतिः उमापति pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
अभिवर्तमानम् अभिवृत् pos=va,g=m,c=2,n=s,f=part
अनङ्ग अनङ्ग pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
शमम् शम pos=n,g=m,c=2,n=s
अनयत् नी pos=v,p=3,n=s,l=lan
तस्माद् तस्मात् pos=i
ब्रूमो ब्रू pos=v,p=1,n=p,l=lat
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
प्रतिगृहीतो प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
तावद् तावत् pos=i
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
गुण गुण pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
भगवतः भगवत् pos=a,g=m,c=6,n=s
प्रत्येमि प्रती pos=v,p=1,n=s,l=lat
भगवता भगवत् pos=a,g=m,c=3,n=s
तु तु pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सुखानाम् सुख pos=n,g=n,c=6,n=p
परमाः परम pos=a,g=f,c=1,n=p
स्त्रिय स्त्री pos=n,g=f,c=1,n=p
इति इति pos=i
लोक लोक pos=n,comp=y
प्रवादः प्रवाद pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
भवति भू pos=v,p=3,n=s,l=lat
द्विविधः द्विविध pos=a,g=m,c=1,n=s
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
सुकृतात् सुकृत pos=n,g=n,c=5,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat
दुष्कृताद् दुष्कृत pos=n,g=n,c=5,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इति इति pos=i
अत्र अत्र pos=i
उच्यताम् वच् pos=v,p=3,n=s,l=lot