Original

वैशंपायन उवाच ।तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् ।संतप्तः शोकदुःखाभ्यां राज्ञो वाक्शल्यपीडितः ॥ १ ॥

Segmented

वैशंपायन उवाच तूष्णीम् भूतम् तु राजानम् पुनः एव अर्जुनः ऽब्रवीत् संतप्तः शोक-दुःख राज्ञो वाच्-शल्य-पीडितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तूष्णीम् तूष्णीम् pos=i
भूतम् भू pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
दुःख दुःख pos=n,g=n,c=3,n=d
राज्ञो राजन् pos=n,g=m,c=6,n=s
वाच् वाच् pos=n,comp=y
शल्य शल्य pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part