Original

युधिष्ठिर उवाच ।पापस्य यदधिष्ठानं यतः पापं प्रवर्तते ।एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ ॥ १ ॥

Segmented

युधिष्ठिर उवाच पापस्य यद् अधिष्ठानम् यतः पापम् प्रवर्तते एतद् इच्छामि अहम् ज्ञातुम् तत्त्वेन भरत-ऋषभ

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पापस्य पाप pos=n,g=n,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=1,n=s
यतः यतस् pos=i
पापम् पाप pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s