Original

भीष्म उवाच ।एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा ।विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥ ८८ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा निववृते मातङ्गः कौशिकम् तदा विश्वामित्रो जहार एव कृत-बुद्धिः श्व-जाघनीम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
निववृते निवृत् pos=v,p=3,n=s,l=lit
मातङ्गः मातंग pos=n,g=m,c=1,n=s
कौशिकम् कौशिक pos=n,g=m,c=2,n=s
तदा तदा pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
श्व श्वन् pos=n,comp=y
जाघनीम् जाघनी pos=n,g=f,c=2,n=s