Original

विश्वामित्र उवाच ।उपादाने खादने वास्य दोषः कार्यो न्यायैर्नित्यमत्रापवादः ।यस्मिन्न हिंसा नानृते वाक्यलेशो भक्ष्यक्रिया तत्र न तद्गरीयः ॥ ८४ ॥

Segmented

विश्वामित्र उवाच उपादाने खादने वा अस्य दोषः कार्यो न्यायैः नित्यम् अत्र अपवादः यस्मिन् न हिंसा न अनृते वाक्य-लेशः भक्ष्य-क्रिया तत्र न तद् गरीयः

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपादाने उपादान pos=n,g=n,c=7,n=s
खादने खादन pos=n,g=n,c=7,n=s
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दोषः दोष pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
न्यायैः न्याय pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
अत्र अत्र pos=i
अपवादः अपवाद pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
हिंसा हिंसा pos=n,g=f,c=1,n=s
pos=i
अनृते अनृत pos=n,g=n,c=7,n=s
वाक्य वाक्य pos=n,comp=y
लेशः लेश pos=n,g=m,c=1,n=s
भक्ष्य भक्ष्य pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
गरीयः गरीयस् pos=a,g=n,c=1,n=s