Original

विश्वामित्र उवाच ।स्थाने तावत्संशयः प्रेत्यभावे निःसंशयं कर्मणां वा विनाशः ।अहं पुनर्वर्त इत्याशयात्मा मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् ॥ ७५ ॥

Segmented

विश्वामित्र उवाच स्थाने तावत् संशयः प्रेत्यभावे निःसंशयम् कर्मणाम् वा विनाशः अहम् पुनः वर्त इति आशय-आत्मा मूलम् रक्षन् भक्षयिष्यामि अभक्ष्यम्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्थाने स्थान pos=n,g=n,c=7,n=s
तावत् तावत् pos=i
संशयः संशय pos=n,g=m,c=1,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
वा वा pos=i
विनाशः विनाश pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
वर्त वृत् pos=v,p=1,n=s,l=lat
इति इति pos=i
आशय आशय pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
भक्षयिष्यामि भक्षय् pos=v,p=1,n=s,l=lrt
अभक्ष्यम् अभक्ष्य pos=a,g=n,c=2,n=s