Original

पूजन्युवाच ।वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् ॥ ३८ ॥

Segmented

पूजना उवाच वैरम् पञ्च-समुत्थानम् तत् च बुध्यन्ति पण्डिताः स्त्री-कृतम् वास्तु-जम् वाच्-जम् स सपत्न-अपराध-जम्

Analysis

Word Lemma Parse
पूजना पूजनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वैरम् वैर pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
समुत्थानम् समुत्थान pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
बुध्यन्ति बुध् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
स्त्री स्त्री pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वास्तु वास्तु pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
वाच् वाच् pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
pos=i
सपत्न सपत्न pos=n,comp=y
अपराध अपराध pos=n,comp=y
जम् pos=a,g=n,c=1,n=s