Original

पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः ।चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् ॥ २८ ॥

Segmented

पूजितस्य अर्थ-मानाभ्याम् जन्तोः पूर्व-अपकारिनः चेतो भवति अविश्वस्तम् पूर्वम् त्रासयते बलात्

Analysis

Word Lemma Parse
पूजितस्य पूजय् pos=va,g=m,c=6,n=s,f=part
अर्थ अर्थ pos=n,comp=y
मानाभ्याम् मान pos=n,g=m,c=3,n=d
जन्तोः जन्तु pos=n,g=m,c=6,n=s
पूर्व पूर्व pos=n,comp=y
अपकारिनः अपकारिन् pos=a,g=m,c=6,n=s
चेतो चेतस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अविश्वस्तम् अविश्वस्त pos=a,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
त्रासयते त्रासय् pos=v,p=3,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s