Original

यः पापं कुरुते राजा काममोहबलात्कृतः ।प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ॥ १२ ॥

Segmented

यः पापम् कुरुते राजा काम-मोह-बलात्कृतः प्रत्यासन्नस्य तस्य ऋषे किम् स्यात् पाप-प्रणाशनम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मोह मोह pos=n,comp=y
बलात्कृतः बलात्कृत pos=a,g=m,c=1,n=s
प्रत्यासन्नस्य प्रत्यासद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
ऋषे ऋषि pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पाप पाप pos=n,comp=y
प्रणाशनम् प्रणाशन pos=n,g=n,c=1,n=s