Original

स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः ।न मूलफलभोगेषु स्पृहामप्यकरोत्तदा ॥ २० ॥

Segmented

स तु श्वा व्याघ्र-ताम् प्राप्य बलवान् पिशित-अशनः न मूल-फल-भोगेषु स्पृहाम् अपि अकरोत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
व्याघ्र व्याघ्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
बलवान् बलवत् pos=a,g=m,c=1,n=s
पिशित पिशित pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
pos=i
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
भोगेषु भोग pos=n,g=m,c=7,n=p
स्पृहाम् स्पृहा pos=n,g=f,c=2,n=s
अपि अपि pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i