Original

तथैव चान्यै रतिशास्त्रवेदिभिः स्वलंकृतैः शास्त्रविधानदृष्टिभिः ।सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यानुपधारयस्व ॥ ४३ ॥

Segmented

तथा एव च अन्यैः रति-शास्त्र-वेदिभिः सु अलंकृतैः शास्त्र-विधान-दृष्टिभिः सु शिक्षितैः भाष्य-कथा-विशारदैः परेषु कृत्यान् उपधारयस्व

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
रति रति pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
वेदिभिः वेदिन् pos=a,g=m,c=3,n=p
सु सु pos=i
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
शास्त्र शास्त्र pos=n,comp=y
विधान विधान pos=n,comp=y
दृष्टिभिः दृष्टि pos=n,g=m,c=3,n=p
सु सु pos=i
शिक्षितैः शिक्षय् pos=va,g=m,c=3,n=p,f=part
भाष्य भाष्य pos=n,comp=y
कथा कथा pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=3,n=p
परेषु पर pos=n,g=m,c=7,n=p
कृत्यान् कृ pos=va,g=m,c=2,n=p,f=krtya
उपधारयस्व उपधारय् pos=v,p=2,n=s,l=lot