Original

अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः ।भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥ २७ ॥

Segmented

अस्त्रम् चतुर्विधम् वेद यथा एव त्रिदश-ईश्वरः भार्गवो वा महा-वीर्यः तथा द्रोणो ऽपि माधव

Analysis

Word Lemma Parse
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एव एव pos=i
त्रिदश त्रिदश pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
भार्गवो भार्गव pos=n,g=m,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
माधव माधव pos=n,g=m,c=8,n=s