Original

अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् ।पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ १९ ॥

Segmented

अमूः तु अभिसमागम्य स्मरन्त्यो भरत-ऋषभान् पृथग् एव अभ्यधावन्त पुत्रान् भ्रातॄन् पितॄन् पतीन्

Analysis

Word Lemma Parse
अमूः अदस् pos=n,g=f,c=1,n=p
तु तु pos=i
अभिसमागम्य अभिसमागम् pos=vi
स्मरन्त्यो स्मृ pos=va,g=f,c=1,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
पृथग् पृथक् pos=i
एव एव pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
पतीन् पति pos=n,g=m,c=2,n=p