Original

लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा ।जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः ॥ ९ ॥

Segmented

लब्ध-चेताः तु कौन्तेयः शोक-विह्वलया गिरा जित्वा शत्रूञ् जितः पश्चात् पर्यदेवयद् आतुरः

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
विह्वलया विह्वल pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
जित्वा जि pos=vi
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
जितः जि pos=va,g=m,c=1,n=s,f=part
पश्चात् पश्चात् pos=i
पर्यदेवयद् परिदेवय् pos=v,p=3,n=s,l=lan
आतुरः आतुर pos=a,g=m,c=1,n=s