Original

स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः ।उच्चैः प्रचुक्रोश च कौरवाग्र्यः पपात चोर्व्यां सगणो विसंज्ञः ॥ ३० ॥

Segmented

स तान् तु दृष्ट्वा भृशम् आर्त-रूपः युधिष्ठिरो धर्म-भृताम् वरिष्ठः उच्चैः प्रचुक्रोश च कौरव-अग्र्यः पपात च उर्व्याम् स गणः विसंज्ञः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
भृशम् भृशम् pos=i
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
उच्चैः उच्चैस् pos=i
प्रचुक्रोश प्रक्रुश् pos=v,p=3,n=s,l=lit
pos=i
कौरव कौरव pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
विसंज्ञः विसंज्ञ pos=a,g=m,c=1,n=s